(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Aadiparv (Mahabharat) - आदिपर्व (महाभारत)


॥ श्रीः ॥
1.157. अध्यायः 157
Mahabharata - Adi Parva - Chapter Topics
हास्तिनपुरं त्यक्त्वा वारणावतं गच्छता युधिष्ठिरेण अनुगच्छथां पौराणां निवर्तनम्॥ 1 ॥ म्लेच्छभाषया युधिष्ठिरं प्रति विदुरस्योपदेशः॥ 2 ॥
Mahabharata - Adi Parva - Chapter Text

वैशम्पायन उवाच। 1-157-0x(924)(7164)
पाण्डवास्तु रथान्युक्तान्सदश्वैरनिलोपमैः।
आरोहमाणा भीष्मस्य पादौ जगृहुरार्तवत्॥ 1-157-1(7165)
राज्ञश्च धृतराष्ट्रस्य द्रोणस्य च महात्मनः।
अन्येषां चैव वृद्धानां कृपस्य विदुरस्य च॥ 1-157-2(7166)
एवं सर्वान्कुरून्वृद्धानभिवाद्य यतव्रताः।
समालिङ्ग्य समानान्वै बालैश्चाप्यभिवादिताः॥ 1-157-3(7167)
सर्वा मातॄस्तथाऽऽपृच्छ्य कृत्वा चैव प्रदक्षिणम्।
प्रकृतीरपि सर्वाश्च प्रययुर्वारणावतम्॥ 1-157-4(7168)
विदुरश्च महाप्राज्ञस्तथाऽन्ये कुरुपुङ्गवाः।
पौराश्च पुरुषव्याघ्रानन्वीयुः शोककर्शिताः॥ 1-157-5(7169)
तत्र केचिद्ब्रुवन्ति स्म ब्राह्मणा निर्भयास्तदा।
दीनान्दृष्ट्वा पाण्डुसुतानतीव भृशदुःखिताः॥ 1-157-6(7170)
विषमं पश्यते राजा सर्वथा स सुमन्दधीः।
कौरव्यो धृतराष्ट्रस्तु न च धर्मं प्रपश्यति॥ 1-157-7(7171)
न हि पापमपापात्मा रोचयिष्यति पाण्डवः।
भीमो वा बलिनां श्रेष्ठः कौन्तेयो वा धनञ्जयः॥ 1-157-8(7172)
कुत एव महात्मानौ माद्रीपुत्रौ करिष्यतः।
तान्राज्यं पितृतः प्राप्तान्धृतराष्ट्रो न मृष्यति॥ 1-157-9(7173)
अधर्म्यमिदमत्यन्तं कथं भीष्मोऽनुमन्यते।
विवास्यमानानस्थाने नगरे योऽभिमन्यते॥ 1-157-10(7174)
पितेव हि नृपोऽस्माकमभूच्छान्तनवः पुरा।
विचित्रवीर्यो राजर्षिः पाण्डुश्च कुरुनन्दनः॥ 1-157-11(7175)
स तस्मिन्पुरुषव्याघ्रे देवभावं गते सति।
राजपुत्रानिमान्बालान्धृतराष्ट्रो न मृष्यति॥ 1-157-12(7176)
वयमेतदनिच्छन्तः सर्व एव पुरोत्तमात्।
गृहान्विहाय गच्छामो यत्र गन्ता युधिष्ठिरः॥ 1-157-13(7177)
वैशम्पायन उवाच। 1-157-14x(925)
तांस्तथा वादिनः पौरान्दुःकितान्दुःखकर्शितः।
उवाच मनसा ध्यात्वा धर्मराजो युधिष्ठिरः॥ 1-157-14(7178)
पिता मान्यो गुरुः श्रेष्ठो यदाह पृथिवीपतिः।
अशङ्कमानैस्तत्कार्यमस्माभिरिति नो व्रतम्॥ 1-157-15(7179)
भवन्तः सुहृदोऽस्माकं यात कृत्वा प्रदक्षिणम्।
प्रतिनन्द्य तथाऽऽशीर्भिर्निवर्तध्वं यथागृहम्॥ 1-157-16(7180)
यदा तु कार्यमस्माकं भवद्भिरुपपत्स्यते।
तदा करिष्यथास्माकं प्रियाणि च हितानि च॥ 1-157-17(7181)
एवमुक्तास्तदा पौराः कृत्वा चापि प्रदक्षिणम्।
आशीर्भिश्चाभिनन्द्यैताञ्जग्मुर्नगरमेव हि॥ 1-157-18(7182)
पौरेषु विनिवृत्तेषु विदुरः सर्वधर्मवित्।
बोधयन्पाण्डवश्रेष्ठमिदंवचनमब्रवीत्॥ 1-157-19(7183)
प्राज्ञः प्राज्ञं प्रलापज्ञः प्रलापज्ञमिदं वचः।
यो जानाति परप्रज्ञां नीतिशास्त्रानुसारिणीम्।
विज्ञायेह तथा कुर्यादापदं निस्तरेद्यथा॥ 1-157-20(7184)
अलोहं निशितं शस्त्रं शरीपरिकर्तनम्।
यो वेत्ति न तु तं घ्नन्ति प्रतिघातविदं द्विषः॥ 1-157-21(7185)
कक्षघ्नः शिशिरघ्नश्च महाकक्षे बिलौकसः।
न दहेदिति चात्मानं यो रक्षति स जीवति॥ 1-157-22(7186)
नाचक्षुर्वेत्ति पन्थानं नाचक्षुर्विन्दते दिशः।
नाधृतिर्भूतिमाप्नोति बुध्यस्वैवं प्रबोधितः॥ 1-157-23(7187)
अनाप्तैर्दत्तमादत्ते नरः शस्त्रमलोहजम्।
श्वाविच्छरणमासाद्य प्रमुच्येत हुताशनात्॥ 1-157-24(7188)
चरन्मार्गान्विजानाति नक्षत्रैर्विन्दते दिशः।
आत्मना चात्मनः पञ्च पीडयन्नानुपीड्यते॥ 1-157-25(7189)
एवमुक्तः प्रत्युवाच धर्मराजो युधिष्ठिरः।
विदुरं विदुषां श्रेष्ठं ज्ञातमित्येव पाण्डवः॥ 1-157-26(7190)
अनुशिक्ष्यानुगम्यैतान्कृत्वा चैव प्रदक्षिणम्।
पाण्डवानभ्यनुज्ञाय विदुरः प्रययौ गृहान्॥ 1-157-27(7191)
निवृत्ते विदुरे चापि भीष्मे पौरजने तथा।
अजातशत्रुमासाद्य कुन्ती वचनमब्रवीत्॥ 1-157-28(7192)
क्षत्ता यदब्रवीद्वाक्यं जनमध्येऽब्रुवन्निव।
त्वया च स तथेत्युक्तो जानीमो न च तद्वयम्॥ 1-157-29(7193)
यदीदं शक्यमस्माभिर्ज्ञातुं नैव च दोषवत्।
श्रोतुमिच्छामि तत्सर्वं संवादं तव तस्य च॥ 1-157-30(7194)
युधिष्ठिर उवाच। 1-157-31x(926)
विषादग्नेश्च बोद्धव्यमिति मां विदुरोऽब्रवीत्।
पन्थानो वेदितव्याश्च नक्षत्रैश्च तथा दिशः।
`कुड्याश्चविदिताःकार्याःस्याच्छुद्धिरितिचाब्रवीत्॥ 1-157-31(7195)
जितेन्द्रियश्च वसुधां प्राप्स्यतीति च मेऽब्रवीत्।
विज्ञातमिति तत्सर्वं प्रत्युक्तो विदुरो मया॥ 1-157-32(7196)
वैशम्पायन उवाच। 1-157-33x(927)
अष्टमेऽहनि रोहिण्यां प्रयाताः फाल्गुनस्य ते।
वारणावतमासाद्य ददृशुर्नागरं जनम्॥ ॥ 1-157-33(7197)

इति श्रीमन्महाभारते आदिपर्वणि जतुगृहपर्वणि सप्तपञ्चादशदधिकशततमोऽध्यायः॥ 157 ॥

Mahabharata - Adi Parva - Chapter Footnotes
1-157-10 अस्थाने अयुक्तम् योऽभिमन्यते स भीष्मः कथमनुमन्यत इत्यर्थः॥ 1-157-20 प्राज्ञः ऊहापोहसमर्थः। प्रलापज्ञः अनर्थवचनाभासाभिज्ञः। युधिष्ठिरमप्येतादृशम्। वचनमेवाह। इदमिति। इदं प्रलापात्मकं मम वचो यो जानाति सः परस्य शत्रोः प्रज्ञां स्वबाधार्थं नीत्या प्रयुक्तां विज्ञाय तथा कुर्यात्। यथा स्वयमापदं निस्तरेदित्यन्वयः॥ 1-157-21 प्रलापाकारवचनमेवाह। अलोहमिति। अलोहमग्निमयं शस्त्रमिव शस्त्रं घातकं तस्य प्रतिघातविदं द्विषो न घ्नन्ति। प्रतिघातकृतमिति पाठे प्रतिघाताय कृतमित्यर्थः॥ 1-157-22 अग्निकृते भये ज्ञातेऽपि कथं प्रतीकारस्तत्राह। कक्षघ्न इति। कक्षस्तृणेन्धनं हन्तीति तथा। शिशिरं शीतं हन्तीति तथाविधोऽपि अग्निः महाकक्षे अरण्ये दह्यमानेऽपि बिलौकसो मूषिकादीन्न दहति इत्थमात्मानं यो रक्षति स जीवति। तथा बिलेष्वाविश्यागाराद्रक्षणीय इत्यर्थः॥ 1-157-23 ततश्च बिलनिर्गमानन्तरमरण्यगमन्प्रकारमुपदिशति। नाचक्षुरिति। अचक्षुः पूर्वं वर्त्मदर्शनविहीनः पन्थानं रात्रौ न वेत्ति। तथा अचक्षुः विज्ञानविहीनः दिशो न विन्दते न प्रत्यभिजानाति। अतः पूर्वमेव वर्त्मदिशौ द्रष्टव्ये इति भावः। कथमस्माकं बिलप्रवेशनिर्गमाविति चेत्तत्राह। नाधृतिरिति। दुःखे धैर्यरहितो भूतिमैश्वर्यं जीवनं वा न विन्दति। विपदि धैर्यमेव कार्यमित्यर्थः॥ 1-157-24 किंच यत्पुरोचनादिभिः कर्तव्यं तत्स्वयमेव कार्यमित्याह। अनाप्तैरिति। अनाप्तैः पुरोचनादिभिर्दत्तं दातुमारब्धं यदलोहजं शस्त्रं तत्स्वयमादत्ते स्वीकरोति तान्हत्वा आत्मानं रक्षति। पुरोचनादिषु जीवत्सु अनु सारादिशङ्का स्यादिति भावः। शरणं सुरङ्गाम्॥ 1-157-25 आत्मना सह पञ्च इन्द्रियाणि। आहाराद्यभावेन पीडयम् अनु पश्चात् न पीड्यते भवानिति शेषः। यद्वा। नाचक्षुरित्युक्तस्यैव विवरणं। चरन्मार्गानिति। विश्वासार्थं षड्दग्धव्या इत्याह। आत्मनेति। लुप्तोपममेतत्। त्वत्सदृशेन सह आत्मनः तव सदृशान्पञ्च नानुपीड्यते भवानिति शेषः॥ 1-157-29 अब्रुवन्निव व्यक्तां वाचमकुर्वन्निव॥ सप्तपञ्चाशदधिकशततमोऽध्यायः॥ 157 ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.