|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.157. अध्यायः 157
Mahabharata - Adi Parva - Chapter Topics
हास्तिनपुरं त्यक्त्वा वारणावतं गच्छता युधिष्ठिरेण अनुगच्छथां पौराणां निवर्तनम्॥ 1 ॥ म्लेच्छभाषया युधिष्ठिरं प्रति विदुरस्योपदेशः॥ 2 ॥
Mahabharata - Adi Parva - Chapter Text
वैशम्पायन उवाच। 1-157-0x(924)(7164)
पाण्डवास्तु रथान्युक्तान्सदश्वैरनिलोपमैः।
आरोहमाणा भीष्मस्य पादौ जगृहुरार्तवत्॥ 1-157-1(7165)
राज्ञश्च धृतराष्ट्रस्य द्रोणस्य च महात्मनः।
अन्येषां चैव वृद्धानां कृपस्य विदुरस्य च॥ 1-157-2(7166)
एवं सर्वान्कुरून्वृद्धानभिवाद्य यतव्रताः।
समालिङ्ग्य समानान्वै बालैश्चाप्यभिवादिताः॥ 1-157-3(7167)
सर्वा मातॄस्तथाऽऽपृच्छ्य कृत्वा चैव प्रदक्षिणम्।
प्रकृतीरपि सर्वाश्च प्रययुर्वारणावतम्॥ 1-157-4(7168)
विदुरश्च महाप्राज्ञस्तथाऽन्ये कुरुपुङ्गवाः।
पौराश्च पुरुषव्याघ्रानन्वीयुः शोककर्शिताः॥ 1-157-5(7169)
तत्र केचिद्ब्रुवन्ति स्म ब्राह्मणा निर्भयास्तदा।
दीनान्दृष्ट्वा पाण्डुसुतानतीव भृशदुःखिताः॥ 1-157-6(7170)
विषमं पश्यते राजा सर्वथा स सुमन्दधीः।
कौरव्यो धृतराष्ट्रस्तु न च धर्मं प्रपश्यति॥ 1-157-7(7171)
न हि पापमपापात्मा रोचयिष्यति पाण्डवः।
भीमो वा बलिनां श्रेष्ठः कौन्तेयो वा धनञ्जयः॥ 1-157-8(7172)
कुत एव महात्मानौ माद्रीपुत्रौ करिष्यतः।
तान्राज्यं पितृतः प्राप्तान्धृतराष्ट्रो न मृष्यति॥ 1-157-9(7173)
अधर्म्यमिदमत्यन्तं कथं भीष्मोऽनुमन्यते।
विवास्यमानानस्थाने नगरे योऽभिमन्यते॥ 1-157-10(7174)
पितेव हि नृपोऽस्माकमभूच्छान्तनवः पुरा।
विचित्रवीर्यो राजर्षिः पाण्डुश्च कुरुनन्दनः॥ 1-157-11(7175)
स तस्मिन्पुरुषव्याघ्रे देवभावं गते सति।
राजपुत्रानिमान्बालान्धृतराष्ट्रो न मृष्यति॥ 1-157-12(7176)
वयमेतदनिच्छन्तः सर्व एव पुरोत्तमात्।
गृहान्विहाय गच्छामो यत्र गन्ता युधिष्ठिरः॥ 1-157-13(7177)
वैशम्पायन उवाच। 1-157-14x(925)
तांस्तथा वादिनः पौरान्दुःकितान्दुःखकर्शितः।
उवाच मनसा ध्यात्वा धर्मराजो युधिष्ठिरः॥ 1-157-14(7178)
पिता मान्यो गुरुः श्रेष्ठो यदाह पृथिवीपतिः।
अशङ्कमानैस्तत्कार्यमस्माभिरिति नो व्रतम्॥ 1-157-15(7179)
भवन्तः सुहृदोऽस्माकं यात कृत्वा प्रदक्षिणम्।
प्रतिनन्द्य तथाऽऽशीर्भिर्निवर्तध्वं यथागृहम्॥ 1-157-16(7180)
यदा तु कार्यमस्माकं भवद्भिरुपपत्स्यते।
तदा करिष्यथास्माकं प्रियाणि च हितानि च॥ 1-157-17(7181)
एवमुक्तास्तदा पौराः कृत्वा चापि प्रदक्षिणम्।
आशीर्भिश्चाभिनन्द्यैताञ्जग्मुर्नगरमेव हि॥ 1-157-18(7182)
पौरेषु विनिवृत्तेषु विदुरः सर्वधर्मवित्।
बोधयन्पाण्डवश्रेष्ठमिदंवचनमब्रवीत्॥ 1-157-19(7183)
प्राज्ञः प्राज्ञं प्रलापज्ञः प्रलापज्ञमिदं वचः।
यो जानाति परप्रज्ञां नीतिशास्त्रानुसारिणीम्।
विज्ञायेह तथा कुर्यादापदं निस्तरेद्यथा॥ 1-157-20(7184)
अलोहं निशितं शस्त्रं शरीपरिकर्तनम्।
यो वेत्ति न तु तं घ्नन्ति प्रतिघातविदं द्विषः॥ 1-157-21(7185)
कक्षघ्नः शिशिरघ्नश्च महाकक्षे बिलौकसः।
न दहेदिति चात्मानं यो रक्षति स जीवति॥ 1-157-22(7186)
नाचक्षुर्वेत्ति पन्थानं नाचक्षुर्विन्दते दिशः।
नाधृतिर्भूतिमाप्नोति बुध्यस्वैवं प्रबोधितः॥ 1-157-23(7187)
अनाप्तैर्दत्तमादत्ते नरः शस्त्रमलोहजम्।
श्वाविच्छरणमासाद्य प्रमुच्येत हुताशनात्॥ 1-157-24(7188)
चरन्मार्गान्विजानाति नक्षत्रैर्विन्दते दिशः।
आत्मना चात्मनः पञ्च पीडयन्नानुपीड्यते॥ 1-157-25(7189)
एवमुक्तः प्रत्युवाच धर्मराजो युधिष्ठिरः।
विदुरं विदुषां श्रेष्ठं ज्ञातमित्येव पाण्डवः॥ 1-157-26(7190)
अनुशिक्ष्यानुगम्यैतान्कृत्वा चैव प्रदक्षिणम्।
पाण्डवानभ्यनुज्ञाय विदुरः प्रययौ गृहान्॥ 1-157-27(7191)
निवृत्ते विदुरे चापि भीष्मे पौरजने तथा।
अजातशत्रुमासाद्य कुन्ती वचनमब्रवीत्॥ 1-157-28(7192)
क्षत्ता यदब्रवीद्वाक्यं जनमध्येऽब्रुवन्निव।
त्वया च स तथेत्युक्तो जानीमो न च तद्वयम्॥ 1-157-29(7193)
यदीदं शक्यमस्माभिर्ज्ञातुं नैव च दोषवत्।
श्रोतुमिच्छामि तत्सर्वं संवादं तव तस्य च॥ 1-157-30(7194)
युधिष्ठिर उवाच। 1-157-31x(926)
विषादग्नेश्च बोद्धव्यमिति मां विदुरोऽब्रवीत्।
पन्थानो वेदितव्याश्च नक्षत्रैश्च तथा दिशः।
`कुड्याश्चविदिताःकार्याःस्याच्छुद्धिरितिचाब्रवीत्॥ 1-157-31(7195)
जितेन्द्रियश्च वसुधां प्राप्स्यतीति च मेऽब्रवीत्।
विज्ञातमिति तत्सर्वं प्रत्युक्तो विदुरो मया॥ 1-157-32(7196)
वैशम्पायन उवाच। 1-157-33x(927)
अष्टमेऽहनि रोहिण्यां प्रयाताः फाल्गुनस्य ते।
वारणावतमासाद्य ददृशुर्नागरं जनम्॥ ॥ 1-157-33(7197)
इति श्रीमन्महाभारते आदिपर्वणि जतुगृहपर्वणि सप्तपञ्चादशदधिकशततमोऽध्यायः॥ 157 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-157-10 अस्थाने अयुक्तम् योऽभिमन्यते स भीष्मः कथमनुमन्यत इत्यर्थः॥ 1-157-20 प्राज्ञः ऊहापोहसमर्थः। प्रलापज्ञः अनर्थवचनाभासाभिज्ञः। युधिष्ठिरमप्येतादृशम्। वचनमेवाह। इदमिति। इदं प्रलापात्मकं मम वचो यो जानाति सः परस्य शत्रोः प्रज्ञां स्वबाधार्थं नीत्या प्रयुक्तां विज्ञाय तथा कुर्यात्। यथा स्वयमापदं निस्तरेदित्यन्वयः॥ 1-157-21 प्रलापाकारवचनमेवाह। अलोहमिति। अलोहमग्निमयं शस्त्रमिव शस्त्रं घातकं तस्य प्रतिघातविदं द्विषो न घ्नन्ति। प्रतिघातकृतमिति पाठे प्रतिघाताय कृतमित्यर्थः॥ 1-157-22 अग्निकृते भये ज्ञातेऽपि कथं प्रतीकारस्तत्राह। कक्षघ्न इति। कक्षस्तृणेन्धनं हन्तीति तथा। शिशिरं शीतं हन्तीति तथाविधोऽपि अग्निः महाकक्षे अरण्ये दह्यमानेऽपि बिलौकसो मूषिकादीन्न दहति इत्थमात्मानं यो रक्षति स जीवति। तथा बिलेष्वाविश्यागाराद्रक्षणीय इत्यर्थः॥ 1-157-23 ततश्च बिलनिर्गमानन्तरमरण्यगमन्प्रकारमुपदिशति। नाचक्षुरिति। अचक्षुः पूर्वं वर्त्मदर्शनविहीनः पन्थानं रात्रौ न वेत्ति। तथा अचक्षुः विज्ञानविहीनः दिशो न विन्दते न प्रत्यभिजानाति। अतः पूर्वमेव वर्त्मदिशौ द्रष्टव्ये इति भावः। कथमस्माकं बिलप्रवेशनिर्गमाविति चेत्तत्राह। नाधृतिरिति। दुःखे धैर्यरहितो भूतिमैश्वर्यं जीवनं वा न विन्दति। विपदि धैर्यमेव कार्यमित्यर्थः॥ 1-157-24 किंच यत्पुरोचनादिभिः कर्तव्यं तत्स्वयमेव कार्यमित्याह। अनाप्तैरिति। अनाप्तैः पुरोचनादिभिर्दत्तं दातुमारब्धं यदलोहजं शस्त्रं तत्स्वयमादत्ते स्वीकरोति तान्हत्वा आत्मानं रक्षति। पुरोचनादिषु जीवत्सु अनु सारादिशङ्का स्यादिति भावः। शरणं सुरङ्गाम्॥ 1-157-25 आत्मना सह पञ्च इन्द्रियाणि। आहाराद्यभावेन पीडयम् अनु पश्चात् न पीड्यते भवानिति शेषः। यद्वा। नाचक्षुरित्युक्तस्यैव विवरणं। चरन्मार्गानिति। विश्वासार्थं षड्दग्धव्या इत्याह। आत्मनेति। लुप्तोपममेतत्। त्वत्सदृशेन सह आत्मनः तव सदृशान्पञ्च नानुपीड्यते भवानिति शेषः॥ 1-157-29 अब्रुवन्निव व्यक्तां वाचमकुर्वन्निव॥ सप्तपञ्चाशदधिकशततमोऽध्यायः॥ 157 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|